2022-06-07 11:31:21
ओ३म्
संस्कृताभ्यासः
*वर्तमानकाल*
अहम् आगच्छामि ?
= मैं आता हूँ / आती हूँ।
अहम् अधुनैव आगच्छामि।
= मैं अभी आता हूँ / आती हूँ।
अहं गृहात् आगच्छामि।
= मैं घर से आ रहा हूँ / आ रही हूँ।
अहं भुवनेश्वरतः आगच्छामि।
= मैं भुवनेश्वर से आ रहा हूँ / आ रही हूँ।
भवान् कुतः आगच्छति ? (पुंलिङ्ग)
= आप कहाँ से आ रहे हैं ?
भवती कुतः आगच्छति? (स्त्रीलिंग)
= आप कहाँ से आ रही हैं ?
सुरेखा कुम्भलगढ़तः आगच्छति ।
= सुरेखा कुम्भलगढ़ से आती है।
जयेन्द्रः ऊटीतः आगच्छति।
= जयेन्द्र ऊटी से आ रहा है।
सः / सा आगच्छति वा ?
= वह आ रहा / आ रही है क्या ?
आं सः / सा आगच्छति।
= हाँ , वह आ रहा / आ रही है।
पश्यतु .... लोकयानम् आगच्छति।
= देखिये ..... बस आ रही है।
चिकित्सकः विलम्बेन आगच्छति।
= चिकित्सक देर से आता है।
अधुना कासः आगच्छति।
= अभी खाँसी आ रही है।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
ओ३म्
संस्कृताभ्यासः
*भविष्यकाल*
अहम् आगमिष्यामि ?
= मैं आऊँगा / आऊँगी
अहं श्वः आगमिष्यामि।
= मैं कल आऊँगा / आऊँगी
अहं गृहात् आगमिष्यामि।
= मैं घर से आऊँगा / आऊँगी।
अहं सप्तवादने आगमिष्यामि।
= मैं सात बजे आऊँगा / आऊँगी।
अहं रात्रिकाले आगमिष्यामि।
= मैं रात में आऊँगा/ आऊँगी।
भवान् कदा आगमिष्यति ?
= आप कब आएँगे ?
भवती कदा आगमिष्यति ?
= आप कब आएँगी ?
विभा परश्वः आगमिष्यति। ।
= विभा परसों आएगी।
स्नेहा बुधवासरे आगमिष्यति।
= स्नेहा बुधवार को आएगी।
सः / सा आगमिष्यति वा ?
= वह आएगा/ आएगी क्या ?
आं सः / सा आगमिष्यति।
= हाँ , वह आएगा / आएगी।
चिकित्सकः विलम्बेन आगमिष्यति।
= चिकित्सक देर से आएगा।
मम परिणामः कदा आगमिष्यति ?
= मेरा परिणाम कब आएगा ?
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
ओ३म्
संस्कृताभ्यासः
*भूतकाल*
अहम् आगतवान् ?
= मैं आया/ मैं आ गया।
अहम् आगतवती ?
= मैं आई/ मैं आ गई।
अहं ह्यः एव आगतवान् / आगतवती।
= मैं कल ही आया / आई
अहं कोट्टायमतः आगतवान् / आगतवती
= मैं कोट्टायम से आया हूँ/ आई हूँ।
अहं षड्वादने एव आगतवान् / आगतवती
= मैं छः बजे ही आ गया था / आ गई थी।
अहं दुग्धं पीत्वा आगतवान् अस्मि।
= मैं दूध पीकर के आया हूँ।
अहम् अल्पाहारं कृत्वा आगतवती अस्मि।
= मैं अल्पाहार करके आई हूँ।
भवान् कदा आगतवान् ?
= आप कब आए ?
भवती कदा आगतवती ?
= आप कब आईं ?
सुपर्णा रत्नागिरीतः आगतवती
= सुपर्णा रत्नागिरी से आई है।
शान्तिः .... शिक्षकः आगतवान्।
= शान्ति ..... शिक्षक जी आ गए।
मम वेतनम् अधुना अपि न आगतम् ।
= मेरा वेतन अभी भी नहीं आया।
अद्य प्रातः दुग्धम् न आगतम्।
= आज सुबह दूध नहीं आया
चिकित्सकः विलम्बेन आगतवान्।
= चिकित्सक देर से आया।
*प्रारम्भे एकवचने एव अभ्यासं कुर्वन्तु।*
= *प्रारम्भ में एकवचन में ही अभ्यास करिये।*
#vakyabhyas
159 viewsमोहित डोकानिया, 08:31