Get Mystery Box with random crypto!

ओ३म् जया - नमो नमः भ्रातः ! जयः - नमो नमः भगिनि ! जयः - | संस्कृत संवादः (Sanskrit Samvadah)

ओ३म्

जया - नमो नमः भ्रातः !

जयः - नमो नमः भगिनि !

जयः - भगिनि ! अद्य अहं बहु दूरपर्यन्तं धावनं कृतवान्।

जया - बहु उत्तमं भ्रातः !

जयः - अतएव अहं बहु बुभुक्षितः अस्मि।

जया - तर्हि माता फलानि आनीतवती तानि खादतु।

जयः - नैव भगिनि ! मम तु किमपि तैलीयं खादितुं मनः भवति।

जया - नैव भ्रातः ! अम्बा वदति प्रातःकाले तैलीयं न खादनीयम्।

जयः - भगिनि ! मम कृते कानिचन पक्ववाटानि पचतु।

जया - पक्ववाटानि प्रातःकाले न खादनीयानि।

जयः - भवती अपि मातुः सदृशमेव व्यवहारं करोति।

जया - भ्रातः ! सर्वदा निरामयः एव भवितुम् इच्छति चेत् फलानि खादतु। फलस्य रसम् अपि पिबतु।

जयः - अस्तु भगिनि ! मह्यं फलानि ददातु।


जयतु संस्कृतम्

जयतु भारतम्

#samvadah