2023-03-07 14:11:05
*विद्वत्परिषत्*
संस्कृतभारती कर्णाटकदक्षिणम्।
*युवविद्वद्व्याख्यानमाला*
विषयः - *मातृशक्तिवैभवम्*
*स्त्रियश्श्रियश्च गेहेषु न विशेषो$स्ति कश्चन*,
*न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते*, *पितुश्शतगुणं माता गौरवेणातिरिच्यते* इत्येवं महद्भिर्महिता स्त्री पदे पदे स्थाने संस्तुता। प्रकृतिमाता नदीमाता भूमाता गोमाता इत्येवं श्रेष्ठेषु तत्त्वेषु, पदार्थेषु च मातृत्वेन दर्शनम् आसेतुहैमाचलं विश्रुतम्। पार्वती लक्ष्मीः सरस्वती इत्येतानि तत्त्वानि विना को वा जीवने पारं प्राप्नुयात्। सती सीता दुर्गा शारदा लक्ष्मीबायी चेन्नमा इत्येवम् एकैकापि स्त्री स्वीयेन महोज्ज्वलेन व्यक्तित्वेन अजरामरं विराजते। तत्तादृशं *महीमहितं मातृशक्तेः विश्वरूपं साक्षात्कर्त्तुं* व्याख्यानमिदं समायोज्यते।
व्याख्यात्री - *विदुषी डा. आरती वि. बि.*
विभुसंस्थाया: संस्थापिका बेङ्गलूरु.
07- 03 - 2023, मङ्गलवासरः
6:00 - 7:30 PM
साक्षात्प्रसारणम्
https://youtube.com/c/sbdakshinakar
(Click the *SUBSCRIBE* & notification icon to receive updates)
497 views11:11